आत्मषटक
|| ātmashataka ||
मनोबुध्यहंकारचित्तानि नाहं
manobuddhyahankāracittāni nāham
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
na ca śrotrajihve na ca ghrānanetre |
न च व्योमभूमिः न तेजो न वायुः
na ca vyomabhūmih na tejo na vāyuh
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।१।
cidānandarūpah śivo'ham śivo'ham |1|
न च प्राणसञ्ज्ञो न वै पञ्चवायुः
na ca prānasańjńo na vai pańcavāyuh
न वा सप्तधातुर्न वा पञ्चकोशः ।
na vā saptadhāturna vā pańcakośah |
न वाक्पाणिपादौ न चोपस्थपायू
na vākpānipādau na copasthapāyū
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।२।
cidānandarūpah śivo'ham śivo'ham |2|
न मे द्वेषरागौ न मे लोभमोहौ
na me dvesharāgau na me lobhamohau
मदो नैव मे नैव मात्सर्यभावः ।
mado naiva me naiva mātsaryabhāvah |
न धर्मो न चार्थो न कामो न मोक्षः
na dharmo na cārtho na kāmo na mokshah
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।३।
cidānandarūpah śivo'ham śivo'ham |3|
न पुण्यं न पापं न सौख्यं न दुःखं
na punyam na pāpam na saukhyam na duhkham
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
na mantro na tīrtham na vedā na yajńāh |
अहं भोजनं नैव भोज्यं न भोक्ता
aham bhojanam naiva bhojyam na bhoktā
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।४।
cidānandarūpah śivo'ham śivo'ham |4|
न मे मृत्युशंका न मे जातिभेदः
na me mrityuśamkā na me jātibhedah
पिता नैव मे नैव माता न जन्म ।
pitā naiva me naiva mātā na janma |
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
na bandhurna mitram gururnaiva śishyah
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।५।
cidānandarūpah śivo'ham śivo'ham |5|
अहं निर्विकल्पो निराकाररूपो
aham nirvikalpo nirākārarūpo
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
vibhurvyāpya sarvatra sarvendriyānām |
सदा मे समत्वं न मुक्तिर्न बन्धः
sadā me samatvam na muktirna bandhah
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।६।
cidānandarūpah śivo'ham śivo'ham |6|
Bookmarks